परोपकार पर संस्कृत में निबंध 🏵 यहां देखें | Essay On Paropkar In Sanskrit

प्रिय पाठकों, भारत की नम्बर 1 हिंदी संस्कृत वेबसाइट sanskritexam.com में आपका स्वागत है। आज हम आपके लिए परोपकार पर निबंध संस्कृत में प्रस्तुत कर रहे हैं। 

परोपकारः पुण्याय पापाय परपीडनम्, परोपकाराय सतां विभूतयः विभिन्न परीक्षाओं में इस Topic पर निबंध पूछा जाता है। अतः यहाँ परोपकार पर बेहतरीन संस्कृत निबंध प्रस्तुत किया जा रहा है। 

इसके अलावा यहां परोपकार पर 10 वाक्य संस्कृत में, परोपकार पर 20 वाक्य in sanskrit और संस्कृत निबंध के साथ साथ बीच बीच में परोपकार पर सुन्दर व अच्छे अच्छे संस्कृत श्लोक भी दिए गये हैं, जो कि आपके निबंध को बेहतर बनाता है। 

आइये, प्रस्तुत है- Essay On Paropkar In Sanskrit यानि परोपकार पर निबंध संस्कृत में


परोपकारः नाम किम्? (परोपकार शब्द का अर्थ संस्कृत में) प्रस्तावना

परेषाम् उपकारः = परोपकारः, तदर्थ सतां सज्जनानां विभूतयः भवन्ति इति शीर्षकस्यास्य आशयः । ता एव विभूतयः अणिमादिभि- रष्टभिर्नामभिः सुप्रसिद्धाः संसारे । तद्वक्ष्यन्ते-

अणिमा महिमा चैव गरिमा लघिमा तथा ।

प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥


अलं पल्लवितेन, स्वार्थभावनां विहाय यत् किमपि परार्थं क्रियते प्राणिमात्रेण स एव परोपकारपदवाच्यतां याति । 'परोपकाराय सतां विभूतयः' इति यदुच्यते तत्र सतां स्वरूपं कीदृशम् ? येषां विभूतयः परोपकाराय भवन्ति, तत्समाधीयते-

किमत्र चित्रं यत्सन्तः परानुग्रहतत्पराः । 

नहि स्वदेहशैत्याय जायन्ते चन्दनद्रुमाः ॥ (परोपकार संस्कृत श्लोक)


पद्येनानेन व्यज्यते यत् जडेष्वपि परोपकारभावो भवति किम्पुनः सचेतनेषु सज्जनेषु । यथा चन्दनानां शैत्यस्य प्रयोगः परेभ्यो भवति नात्मने । इत्यनेन सतां जीवनमेव अन्येषां कृते भवतीति सम्पण्डितोऽर्थः । अयं हि परोपकारः न केवलं सज्जनेषु एव प्रयुज्यते सद्भिः अपितु यस्मिन् कस्मिन्नपि पुरुषे । 

यथोक्तम्-

उपकारिषु यः साधु साधुत्वे तस्य को गुणः ।

अपकारिषु यः साधुः स साधुः सद्भिषच्यते ।। (परोपकार संस्कृत श्लोक)


इत्थं पद्यद्वयेन सतां स्वरूपसमुपस्थापना सङ्क्षेपेणात्र विहिता । एतादृग्गुणगणैर्जु'ष्टाः सन्तः परहितसाधनव्रतं सम्यगुरूपेण निर्वहन्ति।

इन्हें भी देखें / क्लिक करें 👇

 

परोपकारस्य महत्त्वम् (परोपकार का महत्व in Sanskrit)

यदि वयं चराचररूपजगतः सर्वेक्षणं सूक्ष्मेक्षिकया कुर्मः तदा स्पष्टतया इदमभिव्यज्यते तत् न केवलं मानवा एव अपितु पशवः, वृक्षाः, पर्वताः सरितः अपि निरन्तरं परोपकारकर्म निर्व्याजं समाचरन्ति । तद्यथा- रविश्चन्द्रो घना वृक्षा नद्यो गावश्च सज्जनाः । एते परोपकाराय युगे दैवेन निर्मिताः ॥

अपरमपि-

रत्नाकरः किं कुरते स्वरत्नैः विन्ध्याचलः किं करिभिः करोति । 

श्रीखण्डवृक्षैर्मलयाचलः किं परोपकाराय सतां विभूतयः ॥ (परोपकार संस्कृत श्लोक)


अन्यदपि -

परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ।। (परोपकार संस्कृत श्लोक)


इतरदपि -

भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्भूमिविलम्बिनो घनाः।

अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥‌ (Paropkar Sanskrit Shlok)

इन्हें भी देखें 👇👇Click


इत्थं परोपकारिभिः शास्त्रज्ञः प्रकृतिसरलैः सद्भावशीलैः सत्पुरुषः परोपकारस्य महिमा सुविशदं यत्र तत्र सर्वत्र प्राकाम्येन निरूपितो विलसति । 

इदमपि समुपलभ्यते परोपकृतिभावनाविरहित पुरुषेभ्यः ते पशवः धन्याः सन्ति येषां सम्पूर्णं जीवनं परोपकाराय घटते, मरणा- नन्तरमपि तेषां शरीरावयवैः परोपकार एव बोभवीति । 

तद्यथा- 

परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम् । 

धन्यास्ते पशवो येषां चर्माप्युपकरोति हि ॥

बहुभिः नृपैः ऋषिभिः महर्षिभिः स्वकीयदेहोऽपि परोपकाराय तृणीकृत इति परम्परयाऽनुश्रूयते । एतादृङ्महापुरुषेषु चारुचरितस्य जीमूतवाहनस्य चर्चा सज्जनान् चमच्चरीकर्तुं चरमां सीमामधिः रोहति।

एतेन महाबाहुना शङ्खचूडस्य प्राणाः महाहिमस्तिष्क विपाटन- पटीयसः गरुडाद् आत्मसमर्पणद्वारा संरक्षिता । 

सङ्क्षेपेण तद्यथा- बध्यशिलायामुपविश्य धीगेदात्तचरितो जीमूतवाहनः कथयति, मया यत्सुखं शैशवे मातुरुत्सङ्गे नाधिगतम्, तदद्य परार्थे देहमुज्झता बध्यत शिलायाम्प्राप्तम् ।

परोपकारस्य स्वरूपं वर्णयद्भिः प्राचीनैराचार्य प्रवरै: यदुक्तं तत्सत्यम् । तैरुक्तं यत् कायिक वाचिक-मानसिक व्यापारेषु एव परेषामुपकारः सीमि न भवति अपितु मति आवश्यके धनव्ययेन प्राणैरपि च परोपकारः कर्तव्यः । 

इत्थं कृतस्य परोपकारस्य यत्पुण्य भवति तद् अनेकैरपि यज्ञादिभिः प्राप्तुं न शक्यते । परमेश्वरः अपि प्राणिनामुपकाराय समये समये अवतारान् गृहीत्वा तान् आततायिभ्यो रक्षति, स्वयं पदातिः सन् भक्तजनोपकाराय इतस्ततो धावति । 

ईश्वरतः आरभ्य चराचरं यावत् प्राणिनः परोपकारिणो भवन्ति, येन परस्परं प्रेम वर्धते, किन्तु सन्ति केचन ये परोपकारपरायणेष्वपि कृतघ्नतामाचरन्ति तेषां विषये कश्चन कविः सोच्छवासं कथयति- उपकारिणि विश्रब्ध शुद्धमतो यः समाचरति पापम्।

तं जनमसत्यसन्धं गवति वसुधे कथं वहसि ॥ (Paropkar Sanskrit Nibandh)


निष्कर्ष- परोपकार पर संस्कृत में निबंध

किमधिकं विस्तरेण सतां मार्गमाश्रित्य सर्वैः परोपकारपरायणैरेव सर्वदा भवितव्यम् । य इत्थमाचरति तस्य सर्वत्र समादरो भवति आध्यात्मिकं सुखं च स लभते । 

तद्विपरीतमाचरणं लोके हास्यास्पदम् अपमानजनकञ्च भवति । अतः क एतादृगाचरणं करिष्यति येन स्वकीयापमाननासम्भवेत् । अत्र ग्रन्थकृदाशय:-

कूपमण्डूकवन्निन्द्याः सदा स्वार्थपरायणाः ।

परोपकारसिक्तान्ताः पुरुषा देवसन्निभाः ॥


परोपकार पर 10 वाक्य in sanskrit

यहाँ हम आपको परोपकार पर 10 वाक्य संस्कृत में बता रहे हैं। इसके अलावा परोपकार पर 20 वाक्य in sanskrit या 25 वाक्य, 50 वाक्य भी दिए हैं। 

  • वाक्य १. परेषामुपकारः परोकारः।
  • वाक्य २. परोपकारः पुण्याय भवति।
  • वाक्य ३. परोपकारेण जीवनम्।
  • वाक्य ४. परोपकाराय वहन्ति नद्यः।
  • वाक्य ५. परोकाराय दुहन्ति गावः।
  • वाक्य ६. नास्ति परोपकारसृदशः धर्मः।
  • वाक्य ७. परोपकाराय फलन्ति वृक्षाः।
  • वाक्य ८. परोपकार सत्पुरुषाः भवन्ति।
  • वाक्य ९. परोपकारः करणीयः।
  • वाक्य १०. परोपकाराय इदं शरीरम्।

इन्हें भी देखें 👇👇


परोपकारः नाम किम्? के परोपकारमग्नाः ?

परेषाम् उपकारः परोपकारः भवति। ये परोपकारं कुर्वन्ति ते परोपकारमग्नाः भवन्ति।

प्रिय पाठकों, यहाँ Sanskrit Essay सीरीज के अन्तर्गत परोपकार पर निबंध संस्कृत में (Paropkar Par Nibandh Sanskrit Mein), परोपकार पर 10 वाक्य संस्कृत में, परोपकार पर संस्कृत में श्लोक, परोपकार पर संस्कृत में वाक्य प्रस्तुत किए गये। अन्य संस्कृत निबंध के लिए इस वेबसाइट के मेनू बार में जाएं।

Post a Comment

0 Comments