सदाचार पर संस्कृत में निबंध | Sadachar Nibandh In Sanskrit | आचार परमो धर्म संस्कृत में निबंध

सदाचार पर संस्कृत में निबंध | Sadachar Nibandh In Sanskrit | आचार परमो धर्म संस्कृत में निबंध | Sadachar Essay In Sanskrit

प्यारे विद्यार्थियों, जीवन में सदाचार का बहुत बड़ा महत्व है। मर्यादा पुरुषोत्तम भगवान श्री राम से लेकर स्वामी विवेकानंद जैसे महापुरुषों ने सदाचार के मार्ग का अनुसरण किया। सदाचारी मानव ही संसार में पूजनीय होता है। 

आज के इस आर्टिकल में हम सदाचार पर संस्कृत निबंध - Sadachar Nibandh In Sanskrit प्रस्तुत कर रहे हैं। जी हाँ, प्रिय विद्यार्थियों आप सभी का भारत की नम्बर 1 इस संस्कृत वेबसाइट SanskritExam. Com में स्वागत है। 

इस वेबसाइट पर संस्कृत सीखने हेतु ढेर सारी सामग्री उपलब्ध है, जिसका आप निशुल्क रूप से लाभ ले सकते हैं। इस वेबसाइट में सैकड़ों विषयों पर संस्कृत निबंध उपलब्ध हैं। इसके लिए आप इस वेबसाइट के मेनूबार या होमपेज में Sanskrit Nibandh वाले Option पर क्लिक करें। 

आज यहाँ हम सदाचार पर संस्कृत में निबंध ( Sadachar Nibandh In Sanskrit ) अर्थात् आचार परमो धर्म संस्कृत में निबंध प्रस्तुत कर रहे हैं। आचार परमो धर्म का अर्थ है कि आचार ही मनुष्य का सर्वोपरि धर्म है। 

सदाचार ही मानव का परम धर्म है। अतः शास्त्रों में- आचारः परमो धर्मः वाली बात कही गयी है।  नीचे सदाचार पर संस्कृत में निबंध दिया गया है। Sadachar Essay In Sanskrit


सदाचार पर छोटा निबंध Sanskrit / Sadachar Essay In Sanskrit

सताम् आचारः सदाचारः भवति।‌ सदाचारश्च सर्वेभ्यः उपकारको भवति। सदाचारेण मानवः कीर्तिं लभते। सदाचारी मानवः यशः सम्मानं च प्राप्नोति। सदाचारेण श्रीरामः मर्यादापुरुषोत्तमः अभवत्। सदाचारहीनः जनः पशु इव मन्यते।

सदाचारी मानवः सर्वत्र आदरम् अवाप्नोति।सदाचारः जीवनाय परमावश्यको वर्तते। जनाः सदाचारं न कदापि त्यजन्तु। सदाचारेण प्रतिष्ठा लभ्यते। 

सदाचाराय सर्वैः अस्माभिः स्वीयं जीवनं समर्पणीयम्। सदाचारात् पृथक् आचारः दुराचारो भवति। सदाचारस्य शास्त्रेषु प्रशंसा क्रियते। सदाचारे सर्वेsपि गुणाः समाहिताः सन्ति।


सदाचार के 10 नियम in Sanskrit / 10 लाइन

  • सताम् आचारः सदाचारः भवति।
  • सदाचारः सर्वेभ्यः उपकारकः भवति।

  • सदाचारेण मानवः कीर्तिं लभते।

  • सदाचारी जनः यशः सम्मानं च प्राप्नोति।

  • सदाचारेण श्रीरामः मर्यादापुरुषोत्तमः बभूव।

  • सदाचारहीनः जनः पशुसमानः वर्तते।
  • सदाचारी मानवः सर्वत्र आदरम् अवाप्नोति।
  • सदाचारः जीवनाय परमावश्यकः।

  • सदाचारं न कदापि त्यजन्तु।

  • सदाचारेण प्रतिष्ठा भवति।

  • सदाचाराय अस्माभिः स्वीयं जीवनं समर्पणीयम्।

  • सदाचारात् पृथक् दुराचारो भवति।
  • सदाचारस्य शास्त्रेषु प्रशंसा क्रियते।

  • सदाचारे सर्वेsपि गुणाः समाहिताः सन्ति।


इन्हें भी देखें 👇

Click- मेरे विद्यालय पर संस्कृत निबंध

Clickसंस्कृत के इन रहस्यों से वैज्ञानिक भी हैरान

Clickसनातन धर्म के हैरान करने वाले रहस्य

Clickज्योतिष व स्वप्नशास्त्र की गूढ बातें

Clickआसानी से संस्कृत बोलना व अनुवाद करना सीखें


सदाचार पर संस्कृत में निबंध | Sadachar Nibandh In Sanskrit | आचार परमो धर्म संस्कृत में निबंध


सदाचार पर संस्कृत में निबंध | Sadachar Nibandh In Sanskrit

सदाचार संस्कृत में निबंध सदाचारः- प्रस्तावना

कस्यचिदपि मानवस्य जीवने तस्य आचारः एव तस्य परिचायकः भवति। यदि आचारः उत्तमः अस्ति चेत् सः जनः पूज्यो भवति। आचारः एव आचरणम्, व्यवहारः, चरित्रम् इत्यादिभिः शब्दैरपि कथ्यते। आचारः द्विप्रकारको भवति। 

  1. सदाचारः
  2. दुराचारः


यदि आचारः सत् अर्थात् उत्तमः अस्ति तदा सदाचारः इति भवति। परं यदा आचारः उत्तमः न भवति अपितु निन्दनीयो भवति तदा दुराचारः इति कथ्यते। 


सदाचारशब्दस्य अर्थः /सदाचारस्य कोऽर्थ

सत् इति शब्दपूर्वकात् आङ् उपसर्गपूर्वकाच्च चर (आचरणे व्यवहारे) धातोः सदाचारः इति शब्दस्य उत्पत्तिर्भवति। अस्य अर्थो भवति यत् सद्-व्यवहारः, सद् आचरणम्, सच्चरित्रम्, सुष्ठु व्यवहारः इत्यादिकम्। 


सदाचारस्य महत्वम् (सदाचार का महत्व)

कस्यचिदपि मानवस्य जीवने सदाचारस्य अतीव आवश्यकता वर्तते। सदाचारेणैव कश्चित् जनः प्रसिद्धः पूजनीयश्च भवति। सत् आचरणेन च ईश्वरस्य सामीप्यं प्राप्यते। यत्र कुत्रापि सदाचारः तत्र- प्रेम, सुखम्, शान्ति, समृद्धिः, ऐश्वर्यम्, आरोग्यादिकं च सततं भवति। 

सदाचारस्य अस्य मार्गं नैके महापुरुषाः आचरन्ति। तथाहि- रामकृष्णपरमहंसः, स्वामीरामतीर्थः, स्वामीविवेकानन्दादयः अनेके तादृशाः महाजनाः ये सदाचारमार्गम् अनुसृत्य एव जगति ख्यातिं लब्धवन्तः अपि च देवत्वमपि प्राप्तवन्तः। 

एतदतिरिच्य यो हि नरः सदाचाररहितो भवति। तस्य तु कुगतिरेव वर्तते। सदाचारहीनजनस्य लोके परलोके च समादरो न भवति। एवं च शास्त्रेषु अपि एकः श्लोकः अतीव प्रसिद्धः। तद्यथा-

आचारहीनं न पुनन्ति वेदाः।।


इसे भी देखें / क्लिक करें 👇

Click- मेरे विद्यालय पर संस्कृत निबंध


सदाचारस्य लाभाः (सदाचार के लाभ)

सदाचारेण मातरं पितरं गुरुं प्रति च विनम्रभावः आगच्छति। यः कोपि सदाचारस्य पालनं करोति, तस्य जीवने अहिंसा, नम्रता, दया, प्रेमप्रभृतिगुणाः विकसन्ति। 

सदाचारी जनश्च सर्वत्र समादृतो भवति। लोके पूज्यो भवति। विशिष्य सदाचारपरायणं जनं दृष्ट्वा जनेषु अद्भुतम् आकर्षणमपि भवति।


सदाचारः निष्कर्षः

सर्वैः सर्वदा सदाचारः पालनीयः। विद्यार्थिभिस्तु सदाचारपालनं दृढतया कार्यम्। तेन हि तेषां जीवनं पुष्पवत् सुगन्धितं रविवत् तेजोमयं च भवति। अतः सदाचारः पालयितव्यः। दुराचारश्च कदापि न विधेयः।


इन्हें देखें / क्लिक करें 👇



प्यारे विद्यार्थियों, आज के इस आर्टिकल में सदाचार परमो धर्म / Sadachar Essay In Sanskrit अर्थात् ‌आचार परमो धर्म संस्कृत में निबंध प्रस्तुत किया गया। वास्तव में सदाचार परमो धर्म है। अर्थात् सद् आचरण ही पहला धर्म है। 

इसके अलावा विभिन्न अन्य विषयों पर संस्कृत में निबंध प्राप्त करने के लिए आप इस वेबसाइट के मेनू बार अथवा होम पेज में अवश्य जाएं। धन्यवाद।


Post a Comment

0 Comments

Youtube Channel Image
Earn Money घर बैठे पैसे कमाएं
Click Here