15 अगस्त पर संस्कृत में भाषण (2025) | Sanskrit Speech on Independence Day
बहुबलधारिणीं नमामि तारिणीं रिपुदलवारिणीं मातरम्।
रत्नाकरधौतपदां हिमालयकिरीटिनीम्।
ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम्।।
नमः सभायै।
अधिमंचं विराजमानाः मान्यमान्याः प्राचार्यमहाभागाः, मुख्यातिथिवर्याः, अस्य विद्यालयस्य च व्यवस्थापकवर्याः, प्राचार्याः, आचार्याः, शिक्षकाः, समागताः जनाः, प्रेयांसः छात्राः
अद्यास्माकं स्वातन्त्र्यदिनमिति वयं सर्वे विन्दामहे। एतद्दिनपृष्ठभूमिपरिज्ञानमपि भवतां स्यादित्येवं मन्ये। सप्तचत्वारिंशदुत्तरनवदशशततमे वर्षे नाम 1947 तमे वर्षे भारतदेशोsयं स्वातन्त्र्यं प्राप्नोत्। तत्कालाद् इदानीं यावदयं दिवसः स्वतन्त्रतादिवसरूपेण समाचर्यते।
राष्ट्रियपर्वसु परिगणितं चेदं विशिष्टम् अति महत्वपूर्णं पर्वास्तीति वयं सर्वे जानीमः एव। प्रतिवर्षम् अयं दिवसः भारतस्य सर्वेषु शिक्षालयेषु हर्षोल्लासपूर्वकम् आमान्यते। विशेषेण स्वातन्त्र्यदिनस्य प्रमुखः कार्यक्रमः राष्ट्रराजधान्यां दिल्लीमहानगरे भवति।
तत्र देशस्य प्रधानमन्त्री ध्वजारोहणं विदधाति। एतस्मिन् दिने प्रधानमंत्री राष्ट्रं राष्ट्रजनान् वा सर्वान् समुद्दिश्य सन्दिशति भाषते वा। एकमेव इदं दिनं यस्मिन् दिने नैकधर्मसम्प्रदाययुक्तदेशस्य भारतस्य सर्वेsपि जनाः भेदान् विस्मृत्य स्वाभिमानपूर्वकं ध्वजवन्दनं विदधति, किञ्च वयं भारतीयाः, वयं सर्वे एकदेशवासिनः, सर्वेषामपि अस्माकं राष्ट्रैकतासूत्रे न कश्चिद् ग्रन्थिर्येन वयम् अस्मान् विभक्ताः बद्धाः वा इत्यनुभवेम।
छात्रा:! दिल्लीमहानगरे रक्तदुर्गं (Red Fort) इत्येकं विश्वविश्रुतं स्थलं विद्यते। तत्र अद्य स्वतंत्रदिवसस्य प्रमुखः कार्यक्रमः भवति। प्रायस्तत् विद्यालयेषु दूरदर्शनयन्त्रादिभिः प्रदर्श्यते। अस्तु।
वयं सर्वे भारतीयाः। अस्माकं भारतं श्रेष्ठं सर्वोत्तमं च राष्ट्रम्। भारतं कुतः श्रेष्ठमिति एतत्तु पुरा महर्षिभिरपि दृढीकृतम्।
अत्र जन्म सहस्राणां सहस्रैरपि सत्तम।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात्॥ (विष्णुपुराण.३.३३)
विष्णुपुराणोक्तभारतवर्षमाहात्म्यकथनमिदं सर्वथा संस्तुत्यम्।
अस्मदाचार्यवरैः कविप्रवरैः प्रो.अभिराजराजेन्द्रमिश्रवरैरपि एतद्देशमाहात्म्यं हृद्विलासपरैः स्वाप्रतिमभावैः प्रकटीकृतं यत्-सलिलं सुधामधुरितं पवनोऽपि गन्धवाही। अत्रत्यजन-चरितं विकल्पकलितं धर्मो दयावगाही वर्तते। अशेषं यस्य प्राङ्गणं कौतूहलैः शबलितमस्ति। तं देशं भारतं वन्दे। एवमस्माकं भारतदेशस्य अद्य स्वतन्त्रतादिवसोsस्तीति महतो हर्षस्य विषयः।
अतस्तस्मात् एतादृशेsस्मिन् दिने वयं राष्ट्रवीररक्षकान्, हुतात्मनः राष्ट्रस्वातन्त्र्याय च तेषामात्मार्पणं त्यागं बलिदानं वा स्मरेम। तेभ्यो महद्भ्यः अस्मद्राष्ट्रस्वातन्त्र्यवीरेभ्यः श्रद्धाञ्जलिमर्पयेम इत्येवं परिभावयन् विरमामि विषयाद्। धन्यवादः।।
0 Comments
आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। SanskritExam. Com वेबसाइट शीघ्र ही आपके कमेंट का जवाब देगी। ❤