UP PGT Sanskrit Question Paper PDF | PGT Sanskrit Papers 2001 To 2021

UP PGT Sanskrit Question Paper PDF | PGT Sanskrit Papers 2001 To 2021

प्रिय परीक्षार्थियों, क्या आप भी उत्तर प्रदेश माध्यमिक शिक्षा सेवा चयन बोर्ड के द्वारा आयोजित होने वाली संस्कृत प्रवक्ता अर्थात् PGT परीक्षा के पुराने प्रश्न पत्र खोज रहे हैं??

 
तो आप, बिल्कुल सही जगह पधारे हैं। भारत की नम्बर 1 संस्कृत वेबसाइट SanskritExam. Com में आप सभी का हार्दिक स्वागत है। यहाँ आपको संस्कृत की सभी परीक्षाओं के नोट्स, Mock Test, पुराने प्रश्नपत्र, Syllabus आदि सब कुछ फ्री में मिलता है। इसके लिए आप इस वेबसाइट के मेनूबार में जाएं। 


आज यहाँ हम आपको UP PGT Sanskrit Question Paper PDF प्रदान कर रहे हैं। इसके अलावा अन्य राज्य, जैंसे- DSSSB PGT sanskrit question paper,  HSSC PGT sanskrit question papers PDF का लिंक भी इस आर्टिकल में दिया गया है।

नीचे UP PGT Sanskrit Question Paper प्रस्तुत किया गया है। PDF लिंक भी आर्टिकल के बीच में दिया गया है।


UP PGT Sanskrit Question Paper 2021

पीजीटी संस्कृत पेपर

उ० प्र० माध्यमिक शिक्षा सेवा चयन बोर्ड

23, एलनगंज, प्रयागराज- 211002 

संस्कृत प्रवक्ता (PGT Sanskrit)
वर्ष - 2020-21

1. काव्यस्य षड्विधं प्रयोजनं कस्मिन् काव्यग्रंथे उक्तम्?
(A) काव्यालंकारे
(B) वक्रोक्तिजीविते
(C) साहित्यदर्पणे
(D) काव्यप्रकाशे

2. अभिज्ञानशाकुन्तलम् इति नाटके नान्दी अस्ति-
(A) अष्टपदा
(B) द्वादशपदा
(C) त्रयोदशपदा
(D) अष्टादशपदा

3. वाच्य एव वाक्यार्थः इति केषाम् आचार्याणां मतम्
(A) अभिहितान्वयवादिनाम्
(B) ध्वनिवादिनाम्
(C) रीतिवादिनाम्
(D) अन्विताभिधानवादिनाम्

4. प्रासङ्गिकं प्रदेशस्थं चरितं किं कथ्यते?
(A) प्रकरी
(B) पताका
(C) अर्थप्रकृतिः
(D) नियताप्तिः

5. काव्यप्रकाशाभिमतम् अवरं काव्यं किम्?
(A) गुणरहितम्
(B) समासरहितम्
(C) अलंकाररहितम्
(D) व्यंग्यरहितम्

6. साहित्यदर्पणानुसारं लक्षणायाः कियन्तो भेदाः?
(A) षट्
(B) षोडश्
(C) चत्वारिंशत्
(D) अशीति

7. विरतास्वभिधासु ययार्थो बोध्यते परः- सा वृत्तिः अस्ति-
(A) तात्पर्या
(B) लक्षणा
(C) अभिधा
(D) व्यंजना

8. काव्यप्रकाशे- उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् इति श्लोको निर्दिष्टः उदाहरणरूपेण-
(A) अर्थान्तरसंक्रमितवाच्यध्वनेः
(B) अत्यन्ततिरस्कृतवाच्यध्वनेः
(C) संलक्ष्यक्रमव्यंग्यध्वनेः
(D) असंलक्ष्यक्रमव्यंग्यध्वनेः

9. वाक्यं रसात्मकं काव्यमिति लक्षणं कः आचार्यः कृतवान्?
(A) दण्डी
(B) पण्डितराजो जगन्नाथः
(C) महिमभट्टः
(D) विश्वनाथकविराजः

10. गौर्जल्पति इतीदम् उदाहरणं कस्याः लक्षणायाः निदर्शकम्
(A) प्रयोजनवती गौणीसाध्यवसानालक्षणलक्षणायाः
(B) प्रयोजनवती- गौणीसारोपालक्षणलक्षणायाः
(C) रूढिमती शुद्धासारोपालक्षणलक्षणायाः
(D) रूढिमती शुद्धासाध्यवसानालक्षणलक्षणायाः



11. आचार्यमम्मटस्य मतानुसारं काव्यशास्त्रे ध्वनिः इति शब्दः कुतः आगतः?

(A) न्यायशास्त्रात्
(B) सांख्यशास्त्रात्
(C) व्याकरणशास्त्रात्
(D) मीमांसाशास्त्रात्

12. अभिधामूलाव्यंजनायाः लक्षणमस्ति-
(A) अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते
(B) लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम्
(C) विभावेनानुभावेन व्यक्तः संचारिणा तथा
(D) तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने

13. रसनिष्पत्तिविषये अभिनवगुप्तस्य सिद्धान्तः अस्ति-
(A) रसानुमितिवादः
(B) रसोत्पत्तिवादः
(C) भुक्तिवादः
(D) रसाभिव्यक्तिवादः

14. रूपकस्य को भेदः अस्ति मृच्छकटिकम्?
(A) नाटकम्
(B) प्रकरणम्
(C) व्यायोगः
(D) ईहामृगः

15. मम्मटानुसारेण काव्यलक्षणमस्ति?
(A) शब्दार्थौ सहितौ काव्यम्
(B) वाक्यं रसात्मकं काव्यम्
(C) तददोषौ शब्दार्थौ सगुणावनलंकृती पुनः क्वापि
(D) रमणीयार्थप्रतिपादकः शब्दः काव्यम्

16. संस्कृतप्रायो नटाश्रयः वाग्व्यापारः किं कथ्यते?
(A) आरभटीवृत्तिः
(B) प्रस्तावना
(C) भारतीवृत्तिः
(D) पताका

17. लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः- इत्यत्र कः अलंकारः?
(A) रूपकम्
(B) उत्प्रेक्षा
(C) यमकम्
(D) उपमा

18. बलावलेपादधुनापि पूर्ववत्, प्रबाध्यते तेन जगज्जिगीषुणा?
सतीव योषित्प्रकृतिः सुनिश्चला, पुमांसमभ्येति भवान्तरेष्वपि।। इत्यत्र कः अलंकारः
(A) अर्थान्तरन्यासः
(B) दीपकम्
(C) दृष्टान्तः
(D) विशेषोक्तिः

19. पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम्।। इतिश्लोके अलंकारः अस्ति-?
(A) यमकम्
(B) श्लेषः
(C) वक्रोक्तिः
(D) स्वभावोक्तिः

20. काव्यप्रकाशानुसारं, परिसंख्यालंकारस्य कियन्तो भेदाः?
(A) त्रयः
(B) षट्
(C) चत्वारः

(D) अष्टौ



21. अतिशयोक्ति- अलंकारस्य लक्षणमस्ति-

(A) सिद्ध्यत्वे अध्यवसायस्य
(B) स्वगुणत्यागादत्युत्कृष्टगुणग्रहः
(C) उक्त्वा चात्यन्तमुत्कर्ष...
(D) मीलितं वस्तुनो गुप्तिः केनचित्

22. उपमानोपमेययोरभेदे सति अलंकारो भवति-
(A) उपमा
(B) रूपकम्
(C) उत्प्रेक्षा
(D) सन्देहः

23. साहित्यदर्पणे- नवपलाशपलाशवनं पुरः, स्फुटपरागपरागतपंकजम् इति श्लोको निर्दिष्टः उदाहरणरूपेण-
(A) अनुप्रासस्य
(B) यमकस्य
(C) श्लेषस्य
(D) वक्रोक्तेः

24. डिम्भादेः स्वक्रियारूपादिवर्णने अलंकारो भवति?
(A) स्वभावोक्तिः
(B) परिसंख्या
(C) उत्प्रेक्षा
(D) अतिशयोक्तिः

25. शिशुपालवधमहाकाव्यस्य प्रथमे सर्गे किं छन्दः प्रयुक्तम्?
(A) अनुष्टुप्
(B) वसन्ततिलका
(C) उपजातिः
(D) वंशस्थम्

26. बलवदपि शिक्षितानामात्यन्यप्रत्ययं चेतः इति सुभाषितवचनं कस्मिन् ग्रंथे वर्तते?
(A) दशकुमारचरिते
(B) शिशुपालवधे
(C) शाकुन्तले
(D) मृच्छकटिके

27. किमिव हि मधुराणां मण्डनं नाकृतीनाम् इतीयं सूक्तिर्वर्तते?
(A) उत्तररामचरिते
(B) शाकुन्तले
(C) मेघदूते
(D) नीतिशतके

28. पदं हि सर्वत्र गुणैर्निधीयते- सूक्तिरियं कस्य ग्रंथस्य वर्तते?
(A) उत्तररामचरितस्य
(B) पंचतन्त्रस्य
(C) हितोपदेशस्य
(D) रघुवंशस्य

29. भवितव्यानां द्वाराणि भवन्ति सर्वत्र इतीयं सूक्तिः कुत्र वर्तते?
(A) मृच्छकटिके
(B) शाकुन्तले
(C) शिशुपालवधप्रथमसर्गे
(D) काम्बरीकथामुखे

30. न प्रभातरलं ज्योतिरुदेति वसुधातलात्- इतीयमुक्तिरस्ति?
(A) प्रियंवदायाः
(B) अनसूयायाः
(C) दुष्यन्तस्य

(D) विदूषकस्य


इन्हें भी देखें 👇

Click- TGT, PGT परीक्षाओं का सिलेबस PDF

Click- PGT आदि परीक्षा हेतु संस्कृत व्याकरण नोट्स

Click- PGT आदि परीक्षाओं हेतु सैकड़ों Mock Test

Click- पीजीटी आदि संस्कृत परीक्षाओं हेतु फ्री नोट्स

Click- पढाई में मन लगाने के बेहतरीन उपाय


31. तत्रापि च चतुर्थोङ्कः तत्र श्लोकचतुष्टयम् इत्यस्मिन् कथने कस्य ग्रंथस्य प्रंशसा अस्ति?

(A) अभिज्ञानशाकुन्तलस्य
(B) रघुवंशस्य
(C) मेघदूतस्य
(D) ऋतुसंहारस्य

32. बुद्धचरितमहाकाव्यस्य प्रणेता आसीत्?
(A) अश्वघोषः
(B) श्रीहर्षः
(C) विल्हणः
(D) बुद्धघोषः

33. अनर्घराघवनाटकं रचितवान्-
(A) भवभूतिः
(B) भासः
(C) विशाखदत्तः
(D) मुरारिः

34. राघवपाण्डवीयम् कस्य रचनास्ति?
(A) सोमेश्वरस्य
(B) वेदान्तदेशिकस्य
(C) रत्नाकरस्य
(D) कविराजस्य

35. बाणभट्टस्य पितुर्नाम आसीत्-
(A) वात्स्यायनः
(B) कुबेरः
(C) अर्थपतिः
(D) चित्रभानुः

36. कादम्बरीमतिरिच्य बाणभट्टस्य द्वितीयं गद्यकाव्यं किम्?
(A) दशकुमारचरितम्
(B) वासवदत्ता
(C) हर्षचरितम्
(D) तिलकमञ्जरी

37. नलचम्पूकाव्यस्य कर्ता कः?
(A) बाणभट्टः
(B) आशाधरभट्टः
(C) त्रिविक्रिमभट्टः
(D) महिमभट्टः

38. नलचम्पूकाव्यस्य अन्यनाम किमस्ति?
(A) रामायणचम्पू
(B) उदयनसुन्दरीकथा
(C) भागवतचम्पू
(D) नलदमयन्तीकथा

39. यावाभ्युदयम् इति कस्य रचना वर्तते?
(A) वेदान्तदेशिकस्य
(B) वस्तुपालस्य
(C) मातृगुप्तस्य
(D) भर्तृमेण्ठस्य

40. स्रष्टुः आद्या सृष्टिः का?
(A) आकाशः
(B) अग्निः
(C) जलम्

(D) पृथिवी


Buy Now- PGT Sanskrit Best Book


41. श्रियः पतिः श्रीमति शासितुमित्यस्मिन् श्लोकांशे- श्रियः पतिः अस्ति

(A) पार्वत्याः पतिः
(B) मेनकायाः पतिः
(C) लक्ष्म्याः पतिः
(D) शकुन्तलायाः पतिः

42. वीणा हि नाम असमुद्रोत्थितं रत्नम् इत्युक्तिः कस्य
(A) विदूषकस्य
(B) शकारस्य
(C) चारुदत्तस्य
(D) रेभिलस्य

43. सदूषणामपि निर्दोषा सखरापि सुकोमला।
नमस्तस्मै कृता येन रम्या.........कथा।। उपरि लिखितस्य पद्यस्य रिक्तस्थानं पूरयत।
(A) रामायणी
(B) कादम्बरी
(C) भागवती
(D) साहसिकी

44. रमणीयः खल्ववधिर्विधिन विसंवादितः- कस्येयमुक्तिः
(A) मधुकरिकायाः
(B) परभृतिकायाः
(C) सानुमत्याः
(D) प्रियंवदायाः

45. अभिज्ञानशाकुन्तले- कामी स्वतां पश्यतीति उक्तिः कस्य
(A) विदूषकस्य
(B) राज्ञः
(C) कण्वस्य
(D) शारद्वतस्य

46. कदापि सत्पुरुषा शोकवक्तव्या न भवन्ति- कस्येयमुक्तिः
(A) विदूषकस्य
(B) दुष्यन्तस्य
(C) शार्ङ्गरवस्य
(D) शारद्वतस्य

47. कः अन्यादृश एव लोकपालः अपूर्वो विबुधपतिः अदण्डकरो धर्मराजः, अजधन्यः प्रचेताः
(A) नलः
(B) शूद्रकः
(C) चन्द्रापीडः
(D) तारापीडः

48. मृच्छकटिके वसन्तसेनायाः दर्शनं सर्वप्रथमं कस्मिन्नंके भवति
(A) प्रथमे
(B) द्वितीये
(C) तृतीये
(D) चतुर्थे

49. भवच्छिदस्त्र्यम्बकपादपांसवः इति पदे कस्य जयजयकारः
(A) इन्द्रदेवस्य
(B) अग्निदेवस्य
(C) शिवस्य
(D) विष्णोः

50. शबरसेनापतेः नाम किमासीत्
(A) माधव्यः
(B) मान्धाता
(C) माल्यवान्

(D) मातङ्गः


51.दुष्यन्तः कीदृशः नायकः
(A) धीरललितः
(B) धीरोदात्तः
(C) धीरप्रशान्तः
(D) धीरोद्धतः

52. कादम्बरीकथामुखम् इति ग्रंथस्य मंगलाचरणमस्ति
(A) वागर्थाविव सम्पृक्तौ वागर्थ.
(B) रजोजुषे जन्मनि सत्ववृत्तये स्थितौ..
(C) श्रियः कुरूणामधिपस्य पालनीं प्रजासु..
(D) श्रियः पतिः श्रीमति शासितुं जगत्...

53. शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेपि योग्यताम्- इतीदं वचनमस्ति
(A) शिशुपालवधे श्रीकृष्णस्य नारदं प्रति
(B) शिशुपालवधे नारदस्य श्रीकृष्णं प्रति
(C) शाकुन्तले अनसूयायाः दुर्वाससं प्रति
(D) कुमारसंभवे पार्वत्याः महादेवं प्रति

54. रिक्तस्थानस्य पूर्तिः क्रियताम्- क्रमादमुं नारद इत्यबोधि...........।
(A) यः
(B) सः
(C) नः
(D) कः

55. कस्य नाटकस्य मंगलाचरणे अष्टविधशिवस्वरूपम्
(A) उत्तररामचरितस्य
(B) मुद्राराक्षसस्य
(C) शाकुन्तलस्य
(D) मालविकाग्निमित्रस्य

56. स्फुटोपमं भूतिसितेन शम्भुना इत्यस्मिन् वाक्ये कस्य संकेतः
(A) नारदस्य
(B) कण्वस्य
(C) विश्वामित्रस्य
(D) वशिष्ठस्य

57. नलचम्पूकाव्यानुसारं- प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणा वाचः मुखे गृहे स्त्रियः- कस्मात् कारणात् भवन्ति
(A) भाग्यैः
(B) पुण्यैः
(C) सम्यगाचरणैः
(D) सम्पद्भिः

58. रामायणे शबरीवृत्तान्तः कः
(A) पताका
(B) पताकास्थानकम्
(C) प्रकरी
(D) प्रवेशकः

59. दरिद्रस्य किं शून्यम्
(A) गृहम्
(B) क्षेत्रम्
(C) सर्वम्
(D) उपवनम्

60. रजोजुषे जन्मनि सत्ववृत्तये- अस्मिन् श्लोकांशे रजोजुषे इति पदे विभक्तिरस्ति-
(A) चतुर्थी
(B) प्रथमा
(C) द्वितीया
(D) सप्तमी


इन्हें भी देखें 👇

Click- पढाई में मन लगाने के बेहतरीन उपाय

Click- PGT आदि परीक्षा हेतु संस्कृत व्याकरण नोट्स

Click- PGT आदि परीक्षाओं हेतु सैकड़ों Mock Test

Click- पीजीटी आदि संस्कृत परीक्षाओं हेतु फ्री नोट्स

Click- सरलता से संस्कृत सीखने हेतु- रोचक सामग्री

Clickज्योतिष सीखें व स्वप्नशास्त्र की गूढ बातें

Clickपूजन, हवन व व्रत कथाओं की जानकारी

Click- सैकडों संस्कृत/हिन्दी मनपसंद PDF डाउनलोड करें


61. चकासतं चारूचमूरूचर्मणा- इत्यत्र चमूरू- पदेन कस्य पशोः संकेतः
(A) धेनोः
(B) मृगस्य
(C) कुक्कुटस्य
(D) मयूरस्य

62. रणद्भिराघट्टनया नमस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः- श्लोकांशे अस्मिन् नमस्वतः इति पदस्यार्थः अस्ति
(A) आकाशस्य
(B) मेघस्य
(C) सूर्यस्य
(D) वायोः

63. पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमद्युतिः- अत्र वसानम् इत्यस्मिन् पदे कः प्रत्ययः
(A) ण्वुल्
(B) ल्यप्
(C) अण्
(D) शानच्

64. माघ के शिशुपाल वध नामक काव्य में बीस सर्ग हैं- इत्यस्य वाक्यस्य शुद्धसंस्कृतानुवादः अस्ति।
(A) माघस्य शिशुपालवधे विंशतयः सर्गाः सन्ति।
(B) माघस्य शिशुपालवधे काव्ये विंशतिः सर्गाणि सन्ति।
(C) माघस्य शिशुपालवधे इति नाम्नः काव्ये विंशतयः सर्गाः विद्यन्ते।
(D) माघस्य शिशुपालवधनामके काव्ये विंशति सर्गाः सन्ति।

65. नादेयम् इत्यत्र प्रयुक्तः प्रत्ययः कः
(A) त्यक्
(B) ढक्
(C) ठक्
(D) यत्

66. पारावारीणः इत्यत्र कः प्रत्ययः
(A) अण्
(B) घ
(C) ख
(D) द्द

67. ङीप्प्रत्ययोगान्निष्पन्नं पदमस्ति
(A) नदी
(B) ब्राह्मणी
(C) भवानी
(D) तटी

68. तुमुन्- प्रत्ययविधिसूत्रमस्ति
(A) कालसमयवेलासु
(B) युवोरनाकौ
(C) पुवः संज्ञायाम्
(D) सनांशंसभिक्ष

69. कस्मिन्नुदाहरणे चतुर्थी विभक्तिः
(A) अश्वात् बालकः अपतत्
(B) बालकः दुर्जनात् विभेति
(C) तस्यै कन्यायै फलं यच्छ
(D) का कन्यां पश्यसि

70. दीर्घसक्थः इत्यस्मिन् उदाहरणे शुद्धो विग्रहो वर्तते
(A) दीर्घौ सक्थौ यस्य सः
(B) दीर्घाः सक्थाः यस्य सः
(C) दीर्घे सक्थिनी यस्य सः
(D) दीर्घे सक्थि यस्य सः

71. नास्ति अपादानविधायकं सूत्रम्
(A) भीत्रार्थानां भयहेतुः
(B) पराजेरसोढः
(C) वारणार्थानामीप्सितः
(D) स्पृहेरीप्सितः

72. उपकृष्णम् इति समस्ते पदे किं सूत्रं प्रवृत्तम्
(A) यथासादृश्ये
(B) अव्ययीभावे चाकाले
(C) अव्ययीभावश्च
(D) यावदवधारणे

73. शुष्कः इति पदस्य निष्पत्तिरस्ति
(A) क्तप्रत्यययोगात्
(B) क्तवतुप्रत्यययोगात्
(C) शतृप्रत्यययोगात्
(D) शानच्प्रत्यययोगात्

74. अत्र शुद्धवाक्यमस्ति
(A) सः पितुः सह भ्रम्येत्
(B) दुर्जनात् शिष्यात् कोर्थः
(C) सः जनकेन सह भ्रमति
(D) सः पुस्तकः पठति

75. यत्र क्तिन्-प्रत्ययः अस्ति
(A) वैदिकः
(B) राष्ट्रियः
(C) कृतिः
(D) वन्दमानः

76. भूधातोः लुट्लकार- प्रथमपुरुषैकवचनस्य रूपमस्ति
(A) भविष्यति
(B) भविता
(C) अभविष्यत्
(D) भूयात्

77. नर्तकीपदे प्रत्ययः अस्ति-
(A) सामान्यप्रकारेण ङीष्
(B) विकल्पेन ङीष्
(C) सामान्यप्रकारेण ङीन्
(D) विकल्पेन् ङीन्

78. अनीयर्- प्रत्यययोगाद् निष्पन्नं पदमस्ति
(A) चेयम्
(B) चेतव्यः
(C) चयनीयः
(D) एधितव्यम्

79. अत्र अशुद्धवाक्यमस्ति-
(A) अलं विवादेन
(B) कर्णेन बधिरः
(C) कस्मै बालकाय फलं रोचते
(D) एतस्मै ब्राह्मणं धनं ददाति

80. वैदी इत्यत्र कः स्त्रीप्रत्ययः प्रयुक्तः
(A) ङीप्
(B) ङीष्
(C) ङीन्
(D) टाप्


इन्हें भी देखें 👇

Click- Syllabus

Click- Mock Test

Click- संस्कृत परीक्षा नोट्स

Click- Question Paper

Click- PDF & Ebooks

Click- Learn Sanskrit

Click- संस्कृत व्याकरण नोट्स

Click- कर्मकांड व वास्तु

Click- ज्योतिष शास्त्र 


81. डुकृञ् करणे इति धातुः कस्य गणस्य वर्तते
(A) रुधादिगणस्य
(B) तनादिगणस्य
(C) दिवादिगणस्य
(D) अदादिगणस्य

82. चित्रगुः इति पदे समासः अस्ति
(A) कर्मधारयः
(B) बहुव्रीहिः
(C) द्विगुः
(D) अव्ययीभावः

83. उपपदसमासस्य उदाहरणमस्ति
(A) कुम्भकारः
(B) प्राचार्यः
(C) युधिष्ठिरः
(D) चिन्मात्रम्

84. दाधातु- लङ्लकारे प्रथमपुरुषे बहुवचने अस्ति-
(A) अदत्त
(B) अददाः
(C) अददुः
(D) अदत्ताम्

85. शुद्धं वाक्यम् अभिज्ञायताम्।
(A) ग्रामस्य परितो मृगाः विचरन्ति।
(B) ग्रामस्य परितो मृगः विचरन्ति।
(C) ग्रामे परितं मृगा विचरन्ति।
(D) ग्रामं परितो मृगा विचरन्ति।

86. अन्तरान्तरेण युक्ते इति सूत्रेण विभक्तिर्विधीयते-
(A) द्वितीया
(B) तृतीया
(C) पंचमी
(D) सप्तमी

87. वयं फलानि खादामः इत्यस्य वाक्यस्य कर्मवाच्ये रूपं भवति।
(A) मया फलानि खाद्यन्ते।
(B) अस्माभिः फलानि खाद्यन्ते।
(C) अस्मभ्यं फलानि खाद्यन्ते।
(D) अस्माभिः फलं खाद्यते।

88. फक्- प्रत्यययोगाद् निष्पन्नं पदमस्ति-
(A) दाक्षिः
(B) औडुलोमिः
(C) गार्ग्यायणः
(D) गाङ्गः

89. प्रातिपदिकार्थमात्रे प्रथमायाः उदाहरणमस्ति?
(A) उच्चैः
(B) तटः
(C) द्रोणो व्रीहिः
(D) एकः

90. क्तप्रत्ययविधिसूत्रमस्ति-
(A) पुंसि संज्ञायां प्राचेण
(B) नपुंसके भावे
(C) ण्यास-श्रंथो
(D) गुरोश्च हलः


इसे भी देखें 👇

Click- पढाई में मन लगाने के बेहतरीन उपाय


91. 'इत्थं भूतलक्षणे' इति सूत्रेण विभक्तिर्विधीयते-
(A) द्वितीया
(B) तृतीया
(C) पंचमी
(D) सप्तमी

92. कर्मवाच्ये परिवर्तयतु- 'सा बालिका अजां नयति'-
(A) तया बालिकया अजा नयति।
(B) तया बालिकया अजा नीयते।
(C) सा बालिका अजा नीयते।
(D) सा बालिकया अजां नीयते।

93. रोहिणी इत्यत्र कः प्रत्ययः?
(A) ङीप्
(B) ङीष्
(C) ङीन्
(D) इनि

94. ध्वनिपरिवर्तनस्य आभ्यन्तरकारणमस्ति-
(A) मुखसुखम्
(B) शयनसुखम्
(C)  मातृसुखम्
(D) अर्थसुखम्

95. ध्वनिपरिवर्तनस्य आभ्यन्तरकारणं नास्ति-
(A) लिपिदोषः
(B) प्रयत्नलाघवम्
(C)  बलाघातः
(D) काव्यात्मकता

96. कुशलः इति उदाहरणम् अस्ति-
(A) अर्थविस्तारस्य
(B) अर्थसंकोचस्य
(C)  अर्थापकर्षस्य
(D) एतेषां किमपि न

97. विकासदृष्ट्या भाषा कया समा?
(A) पर्वतः
(B) नदी
(C) सागरः
(D) वृक्षः

98. 'देवम वाचमजनयन्त देवाः' इति केन भाषोत्पत्तिसिद्धान्तेन सम्बद्धः?
(A) सङ्केतसिद्धान्तेन
(B) अनुकरणसिद्धान्तेन
(C) दैवीसिद्धान्तेन
(D) संगीतसिद्धान्तेन

99. अग्निरनुष्णः कृतकत्वाज्जलवत् इत्यत्र कृतकत्वात् इति कीदृशो हेत्वाभासः ?
(A) कालात्ययापदिष्टः
(B) अनैकान्तिकः
(C) उपाधित्वासिद्धः
(D) व्याप्यत्वासिद्धः


 Buy Now 


100. असर्पभूतायां रज्जौ सर्पारोपवत् कः अस्ति।
(A) विषयः
(B) अध्यारोपः
(C)  मुमुक्षत्वम्
(D) तितिक्षा

101. वेदान्तमतेन अज्ञानम् अस्ति।
(A) त्रिगुणात्मकम्
(B) सदसद्भ्यामनिर्वचनीयम्
(C)  अभावरूपम्
(D) भावरूपम्

102. सांख्यशास्त्रं कस्मात् श्रेयान्।
(A) ईश्वरानुग्रहात्
(B) विहितकर्मणामनुष्ठानात्
(C)  अद्वयतत्त्वस्य ज्ञानात्
(D) व्यक्ताव्यक्तविज्ञानात्

103. पर्वतः अयं वह्निमान् इतीदमुदाहरणं कस्य प्रमाणस्य।
(A) प्रत्यक्षस्य
(B) उपमानस्य
(C)  अनुमानस्य
(D) शाब्दस्य

104. धनञ्जयः कीदृशो वायुप्रकारः
(A) क्षुत्करः
(B) षोषणकरः
(C)  उद्गिरणकरः
(D) जृम्भणकरः

105. सांख्यदर्शनस्य सिद्धान्तः अस्ति।
(A) सत्कार्यवादः
(B) असत्कार्यवादः
(C)  विवर्तवादः
(D) आरम्भवादः

106. वेदान्तसारे स्थूलशरीरस्य संज्ञा अस्ति।
(A) अन्नमयकोशः
(B) प्राणमयकोशः
(C) विज्ञानमयकोशः
(D) मनोमयकोशः

107. न्यायः कुत्र प्रवर्तते।
(A) उपलब्धे अर्थे
(B) अनुपलब्धे अर्थे
(C)  निर्णीते अर्थे
(D) सन्दिग्धे अर्थॉ

108. सांख्यदर्शनानुसारं केषां वृत्तिः आलोचनमात्रम् इष्यते।
(A) ज्ञानेन्द्रियाणाम्
(B) कर्मेन्द्रियाणाम्
(C)  तन्मात्राणाम्
(D) पुरुषाणाम्

109. सांख्यदर्शने स्वीकृतानां तत्वानां संख्या कियती अस्ति।
(A) अष्टादश
(B) एकविंशतिः
(C)  द्वाविंशतिः
(D) पंचविंशतिः

110. सांख्यकारिकानुसारेण पुरुषबहुत्वम् अनुमीयते।
(A) संघातपरार्थत्वात्
(B) कैवल्यार्थं प्रवृत्तेश्च
(C)  भोक्तृभावात्
(D) अयुगपत्प्रवृत्तेः

111. पुरुषचेतनायाः अस्तित्वसिद्धिनिमिक्तं वाक्यमस्ति।
(A) शक्तस्य शक्यकारणात्
(B) तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः
(C)  सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा
(D) भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च

112. श्रोत्रेण शब्दस्य प्रत्यक्षं ज्ञानं भवति।
(A) संयोगसन्निकर्षेण
(B) समवायसन्निकर्षेण
(C)  संयुक्तसमवायसन्निकर्षेण
(D) विशेषणविशेष्यभावसन्निकर्षेण

113. न्यायसूत्रानुसारेण प्रमाणानि सन्ति-
(A) प्रत्यक्षानुमानोपमानशब्दाः
(B) प्रमायाः कारणानि बहूनि सन्ति
(C)  योग्यता च गुणानामत्यन्ताभावः
(D) प्रमात्रादिभ्यः अतिशयितत्वादतिशयितम्

114. विशुद्धसत्वप्रधानया अज्ञानसमष्ट्योपहितं चैतन्यं किं कथ्यते।
(A) अव्यक्तमन्तर्यामीजगत्कारणमीश्वरः
(B) प्राज्ञः
(C)  जीवः
(D) उपाधिमुक्तं शुद्धचैतन्यम्


इसे भी देखें 👇

Click- पढाई में मन लगाने के बेहतरीन उपाय


115. सांख्यानुसारं विपर्ययस्य कति भेदाः सन्ति।
(A) पंच
(B) अष्टाविंशतिः
(C)  नव
(D) अष्टौ

116. सांख्यदर्शनानुसारं करणं कतिविधम्-
(A) अष्टविधम्
(B) दशविधम्
(C)  त्रयोदशविधम्
(D) षोडशविधम्

117. सांख्याकारिकानुसारेण सृष्टिर्भवति-
(A) ईश्वरसंकल्पात्
(B) स्वभावात्
(C)  प्रकृतिपुरुषसंयोगात्
(D) परमाणुसंयोगात्

118. वेदान्तमतमस्ति-
(A) मन आत्मेति
(B) बुद्धिरात्मेति
(C)  अज्ञानमात्मेति
(D) प्रत्यक्चैतन्यमात्मेति

119. श्रीकेशवमिश्रस्य मते साक्षात्कारिणी प्रमा का।
(A) आत्मजा
(B) इन्द्रियजा
(C)  जन्मना
(D) कर्मणा

120. तर्कभाषानुसारं परार्थानुमानवाक्यं भवति-
(A) द्वयवयम्
(B) त्र्यवयवम्
(C)  चतुरवयवम्
(D) पंचावयवम्

121. कार्याकार्यव्यवस्थितौ किं प्रमाणम् (श्रीकृष्णानुसारम्)
(A) लोकः
(B) शास्त्रम्
(C)  भार्यावचनम्
(D) स्वकीयं मनः

122. जातस्य को ध्रुवः
(A) विवादः
(B) मृत्युः
(C)  गतिरोधः
(D) विरोधः

123. भगवद्गीतानुसारेण रजोगुणात् संजायते-
(A) लोभः
(B) प्रसादः
(C)  मोहः
(D) अज्ञानम्

124. श्रीमद्भगवद्गीतायाः कस्मिन्नध्याये भगवतो विभूतयो वर्णिताः सन्ति-
(A) सप्तमे
(B) नवमे
(C)  दशमे
(D) द्वादशे

125. श्रीमद्भगवद्गीतायाः कस्मिन्नध्याये भगवान् स्वकीयाम् अष्टधां प्रकृतिं प्रोक्तवान्
(A) षष्ठे
(B) चतुर्थे
(C)  सप्तमे
(D) पंचमे


इन्हें भी देखें 👇

Click- All Sanskrit Syllabus

Click- Sanskrit Mock Test

Click- संस्कृत परीक्षा नोट्स

Click- Question Paper

Click- PDF & Ebooks

Click- Learn Sanskrit

Click- संस्कृत व्याकरण नोट्स

Click- कर्मकांड व वास्तु

Click- ज्योतिष शास्त्र 


इसके अतिरिक्त संस्कृत पीजीटी नोट्स PDF , UP PGT 2019 Sanskrit Question Paper अथवा DSSSB, HSSC या यूपी पीजीटी संस्कृत अन्य वर्षों के प्रश्नपत्र देखने एवं डाउनलोड करने के लिए इस वेबसाइट के मेनूसेक्शन में PGT Sanskrit Paper वाले विकल्प का चयन करें व फ्री में डाउनलोड करें।


Post a Comment

0 Comments

Youtube Channel Image
Earn Money घर बैठे पैसे कमाएं
Click Here